श्रीशिवमहिम्नस्तोत्र

श्रीगणेशाय नमः । पुष्पदन्त उवाच । महिम्नः पारं ते परमविदुषो यद्यसदृशो स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः । अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्‌ । ममप्येष स्तोत्रे हर निरपवादः परिकरः ॥१॥ अतीतः पन्थानं तव च अम्हिमा वाङमनसयोरतद्‌व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मन कस्य न वचः ॥२॥ मधुस्फीता वाचः परमममृतं निर्मितवतस्तय ब्रह्मन्‌ किं वागपि सुरगुरोर्विस्मयपदम्‌ । मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन्‌ पुरमथन बुद्धिर्व्यवसिता ॥३॥ तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्‌ त्रयीवस्तु व्यस्तं तिसृषृ गुणभिन्नासु तनुषू । अभव्यानामस्मिन्‌ वरद रमणीयामरमणीं विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥४॥ किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सुजति किमुपादन इति च । अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥५॥ अजमान्तो लोकाः किमवयववन्तोऽपि जगतामधिष्ठातारं किं भवविधिरनादृत्य भवति । अनीशो वा कुर्याद्‌ भुवनजनने कः परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥६॥ त्रयी साङख्यं योगः पशुपतिमतं वैष्णबमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यामिति च । रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥७॥ महोक्षः खट्वाङगं परशुरजिनं भस्म फणिनः कपालं चेतीयत्‌ तव वरद तन्त्रोपकरणम्‌ । सुरास्तां तामृद्धिं दधति तु भवद्भ्रूप्रणिहितां न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥८॥ध्रुवं कश्चित्‌ सर्वं सकलमपरस्त्वध्रुवमिदं परौ ध्रोव्याध्रौव्ये जगति गदति व्यस्तविषये । समस्तेऽप्येतस्मिन्‌ पुरमथन तैर्विस्मित इव स्तुवाञ्ञिऱ्हेमि त्वां न कलु ननु धृष्टा मुखरता ॥९॥ तवश्वर्यं यत्नाद यदुपरि विरिञ्चिर्हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः । ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्‌ स्वयं तस्थे ताभ्यां तव किमनुवृत्तिने फलति ॥१०॥ अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद्‌ बाहूनभृत रणकण्डूपरवशान्‌ । शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्‌ ॥११॥ अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात्‌ कैलासेऽपि त्वदधि वसतौ विक्रमयतः । अलभ्या पातालेऽप्यलसचलिताङगुष्ठ शिरसि प्रतिष्ठा त्वय्यासीद्‌ ध्रुवमुपचितो मुह्यति खलः ॥१२॥ यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीमधश्चक्र बाणः परिअजनविधेयत्रिभुवनः । न तच्चित्रं तस्मिन्‌ वरिवसिसरि त्वच्चरणयोर्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यजनतिः ॥१३॥ अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपाविधेयस्यासोद्‌ यस्त्रिनयन विषं संहृतवतः । स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाध्यो भुवनभयभङगव्यसनिनः ॥१४॥ असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः । स पश्यन्नीश त्वामितससुरसाधारणमभूत्‌ स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिचयः ॥१५॥ सही पदाघाताद्‌ व्रजति सहसा संशयपदं पदं विष्णिर्भ्राम्यद्‌भुजपरिघरुग्णग्रहगणम्‌ । मुहुर्द्यौदौस्थ्यं यात्यनिभृतजटाताडिततटा जगद्रक्षाये त्वं नटसि तनृ वामैव विभुता ॥१६॥ वियद्व्यापी तारागणगुणितफेनोग्दमरुचिः प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते । जगद्द्विपाकारं जलधिवलयं तेनकृतमित्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥१७॥ रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो । रथाङगे चन्द्रार्को रथचरणपाणिः शर इति । विधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधिर्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८॥ हरिस्ते साहस्त्रं कमलबलिमाधाय पदओर्यदेकोने तस्मिन्‌ निजमुदहरन्‌ नेत्रकलम्‌ । गतो भक्त्युद्रेकः परिणतिमसी चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्‌ ॥१९॥ क्रतौ सुप्ते जाग्रत्‌ त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । अतस्त्वां संप्रेक्ष्य क्रतुषू फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥२०॥ क्रियोदक्षो दक्षः क्रतुपतिरधीशस्तनुभृतामृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः । क्रतुभ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥ प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा । धनुःपाणेर्यातं दिवमपि सपत्रीकृतममुं त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥२२॥ स्वलावण्याशंसाधृतधनुषमहनाय्‌ तृणवत्‌ पुरः प्लुष्टं दृष्टा पुरमथन पुष्पायुधमपि । यदि स्त्रैप देवी यमनिरत देहार्धघटनादवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥२३॥श्मशनिष्वाक्रीडा स्मरहर पिशाचाः सहचराश्चिताभस्मालेपः स्त्रगपि नृकरोटीपरिकरः । अमङगल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तृणां वरद परमं मङगलमसि ॥२४॥ मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्पाद्रोमाणः प्रमदसलिलोत्सङिगतदृशः । यदालोक्याहलादं ऱ्हद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्‌ किल भवान्‌ ॥२५॥ तवमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहस्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं न विद्मस्तत तत्त्वं वयमिह तु यत्‌ त्वं न भवसि ॥२६॥ त्रयीं तिस्त्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरानकारद्यैर्वर्णैस्त्रिभिरभिदधत्‌ तीर्णविकृतिः । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम ॥२७॥ भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहांस्तथा भीमेशानाविति यदभिधानाष्टकमिदम्‌ ॥ अमुष्मिन्‌ प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मै धाम्ने प्रणिहितनमस्योऽस्मि भवते ॥२८॥ नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः । नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः ॥२९॥ बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः । जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः प्रमहसिपदे निस्त्रैगुण्ये शिवाय नमो नमः ॥३०॥ कृशपरिणतिचेतः क्लेशवश्यं क्व चेदं क्व च तव गुणसीमोल्लङिघनी शश्वदृद्धिः । इति चकितममन्दीकृत्य मां भक्तिराधाद्‌ वरद चरनयोस्ते वाक्यपुष्पोपहारम्‌ ॥३१॥ असितगिरिसमं स्यात्‌ कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सार्वकालं तदपि तव गुणानामीश पारं न याति ॥३२॥ असुरसुरमुनीन्द्रैरचिंतस्येन्दुमौलेर्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य । सकलगणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलधुवृत्तैः स्तोत्रमेतच्चकार ॥३३॥अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्‌ पठति परमभक्त्या शुद्धचित्तः पुमान्‌ यः । स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र प्रचुरतरधनायुः पुत्रवान कीर्तिमांश्च ॥३४॥ महेशन्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्‌ ॥३५॥ दीक्षा दानं तपस्तोर्थ ज्ञानं यागादिकाः क्रियाः । महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम ॥३६॥ कुसुमदशननामा सर्वगन्धर्वराजः शशिधरवरमौलेर्देवदेवस्य दासः । स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्‌ स्तवनमिदममकार्षोद्‌ दिव्यदिव्यं महिम्नः ॥३७॥ सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्य प्राञ्जलिर्नान्यचेताः । व्रजति शिवसमीपं किंनरैः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम्‌ ॥३८॥ श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्विषहरेण हरप्रियेण । कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥३९॥ इत्येषा वाङमयी पूजा श्रीमच्छङकरपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥४०॥ आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम्‌ । अनुपम्यं मनोहारि शिवमीश्वरवर्ननम्‌ ॥४१॥ तव तत्त्वं न नानामि कीदृशोऽसि महेश्वर । यादृशोऽसि महादेव तादृशाय नमो नमः ॥४२॥ एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥४३॥ इति श्रीपुष्पदंतविरचितं श्रीशिवमहिम्नस्तोत्रं संपूर्णम्‌ ।